शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ 1॥
सौन्दर्यलहरी आदि शंकराचार्य
Shiva, when infused with Shaki, is capable of becoming potent (Powerful). Without her, he does not even have ability to even vibrate (move/create).
And hence you are worshipped by the trinity and others (विरिञ्चि Brahma = creator, हरि Vishnu = sustainer and हर Mahesh = destroyer), how can someone with no previous (अकृत) good deeds (पुण्यः) O Shaki! even be able to pay respect or sing your praise.
हे भगवति, शिवो देवः शक्त्या युक्तो भवति यदि, तदा प्रभवितुं शक्तः। एवं न चेत्, स्पन्दितुमपि कुशलो न खलु। अतः हरिहरविरञ्चादिभिरपि आराध्यां त्वां अकृतपुण्यः प्रणन्तुं स्तोतुं वा कथं प्रभवति ।
#Sanskrit #Shloka #AdiShankara #SoundryaLahiri
____
Reference:
Multiple format free download: https://archive.org/details/SaundaryaLahariAKuppaswami/
स्पन्दितुं विस्तरं प्राप्तुं न खलु शक्त इत्यर्थः
यैव शक्तिः सैव शिवः
सा शिवा परमा देवी शिवभिन्ना शिवशङ्करी
न शिवेन विना शक्तिर्नशक्तिरहितः शिवः
उमाशङ्करयोरैक्यं यः पश्यति स पश्यति
तस्मात्सह तया शक्त्या हृदि पश्यन्ति ये शिवं
ककारादीक्षकारान्ता वर्णास्ते शिवरुपिणः । अकारादी विसर्गान्ताः स्वराः षोडशशक्तयः । शिवः स्वर पराधीनो न स्वतन्त्रः कथञ्चन ।
दीव्यति क्रीडति इति देवः