न देवः पुण्डरीकाक्षो न च देवस्त्रिलोचनः | न देवो देवरूपो हि न देवश्चित्तरूपकः | अकृत्रिममनाद्यन्तं देवनं देव उच्यते|
न शिवेन विना शक्तिर्न शक्ति रहितः शिवः उमशङ्करयोरैक्यं यः पश्यति स पश्यति
रसो वै सः
चर्माम्बरं च शवभस्मविलेपनं च
भिक्षाटनं च नटनं च परेतभूमौ
वेतलसन्हतिपरिग्रहिता च शंभोः
शोभां वहन्ति गिरिजे तव साहचर्यात्